बालमोदिनी

By: सम्भाषणसन्देशः
  • Summary

  • सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.
    © 2025 सम्भाषणसन्देशः
    Show more Show less
Episodes
  • तल्लीनता
    Apr 16 2025

    कस्मिंश्चित् ग्रामे एकः विद्यालयः आसीत्, यत्र गणितविषयस्य अध्यापकः बहुकष्टं सूत्रं छात्रेभ्यः अयच्छत् । विद्यालयात् बहिः मङ्गलवाद्यध्वनिं श्रुत्वा अध्यापकः कञ्चित् छात्रं घटनां ज्ञातुम् प्रेषयति । छात्रः प्रत्यागत्य कथितवान् यत् महाराजः ग्रामं प्रति आगतः इति। अन्ये छात्राः महाराजं द्रष्टुम् इच्छन्तः अध्यापकात् अनुमतिं प्राप्तवन्तः । सर्वे छात्राः महाराजं द्र्ष्टुं गतवन्तः । कक्ष्यायां केवलं एकः छात्रः गणितसमस्यायाः परिहारकार्यं कुर्वन् आसीत् । अध्यापकः तस्य निकटे गत्वा कारणं पृष्टवान्, तदा छात्रः 'गणितसूत्रसमस्यापरिहारे मग्नः अस्मि' इति प्रत्युत्तरं अयच्छत् । तस्य वचनं श्रुत्वा अध्यापकः महत् आश्चर्यं प्राप्नोत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In a certain village, there was a school where the mathematics teacher gave a difficult problem to the students. Upon hearing the sound of drums outside the school, the teacher sent a student to find out what was happening. The student returned and informed that the king had arrived in the village. The other students, eager to see the king, sought permission from the teacher and went to see him. Only one student remained in the classroom, working on the math problem. The teacher approached him and asked for the reason. The student replied, ‘I am engrossed in solving the math problem’. Hearing this, the teacher was greatly astonished.

    Show more Show less
    3 mins
  • आज्ञापालकः शिष्यः
    Apr 15 2025

    समर्थरामदासस्य गुरुकुले अम्बादासः नाम कश्चन शिष्यः आसीत् यस्य अप्रतिमा गुरुभक्तिः आसीत् । अतः एव रामदासस्य विशेषप्रीतिः असीत् तस्मिन् । किन्तु अन्ये शिष्याः एतत् न सहन्ते स्म । कदाचित् रामदासः अम्बादासं बिल्ववृक्षस्य शाखां कर्तयितुम् अवदत् । अम्बादासः गुरोः आज्ञाम् अनुसृत्य, तद्वृक्षस्य शाखां कर्तयितुम् आरूढवान् । भाराधिक्यात् शाखा छिन्ना जाता । सः कूपे अपतत्। पतनसमये श्रीरामस्य स्मरणं अकरोत् । कूपे तु भगवान् श्रीरामः दृष्टः । अन्ये शिष्याः कूपे पतितं तं दृष्ट्वा रामदासं गृहीत्वा आगतवन्तः । सहपाठिभिः प्रेषितायाः रज्ज्वाः साहाय्येन उपरि आगतवन्तम् अम्बादासं आलिङ्ग्य अवदत् - 'वत्स! आज्ञपालकः शिष्यः भवान् । इतः परं भवतः नाम 'कल्याणः' इति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In the gurukul of Samarth Ramdas, there was a disciple named Ambadas who had absolute dedication to his guru. Thus, Ramdas had special affection for him. However, the other disciples could not tolerate this. One day, Ramdas instructed Ambadas to cut a branch of a bilva tree. Following his guru's command, Ambadas climbed the tree to cut the branch. Due to his weight, the branch broke and he fell into a well. As he fell, he remembered Lord Shri Ram and saw Lord Shri Ram in the well. With the help of a rope sent by his companions, Ambadas came up and embraced Ramdas, who said, "Child, you are a disciple who follows orders. From now on, your name will be 'Kalyan'.

    Show more Show less
    4 mins
  • परिवर्तनम्
    Apr 14 2025

    अमरावतीनगरे कस्मिंश्चित् आश्रमे बहवः शिष्याः अध्ययनं कुर्वन्ति स्म । एकः शिष्यः चौर्याभ्यासे लिप्तः आसीत् । अन्यैः शिष्यैः सः द्विवारं चौर्यसमये गृहीतः । तदा सर्वे तं बहिष्कर्तुं गुरुं प्रार्थितवन्तः । किन्तु गुरुः तस्य बहिष्करणं न अनुमोदितवान् । 'एषः आश्रमात् बहिष्कृतः चेत् को वा एतम् आहूय विद्यां बोधयेत् ?’ इति अवदत् । एतानि वचनानि श्रुत्वा चोरशिष्यस्य मनः परिवृत्तम् । सः गुरोः पादौ गृहीत्वा अश्रुधारया क्षालितवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    In the city of Amaravati, there was an ashram where many disciples studied. One of the disciples was involved in theft. He was caught stealing twice by the other disciples. They all requested the guru to expel him from the ashram. However, the guru did not approve of his expulsion. He said, "If he is expelled from the ashram, who will call him and teach him?" Hearing these words, the thief disciple's mind changed and held the guru's feet.

    Show more Show less
    4 mins
adbl_web_global_use_to_activate_webcro768_stickypopup

What listeners say about बालमोदिनी

Average customer ratings

Reviews - Please select the tabs below to change the source of reviews.