• ताः धूमरेखाः
    Apr 23 2025

    इब्राहिमलोदिः अफगानिस्थानात् भारतं जेतुं आगतः किन्तु तस्य सैन्यम् आसीत् अत्यल्पम् । लोदिः चिन्ताक्रान्तः आसीत् यतः अल्पसैन्ययुक्तेन कथं एतत् सुविशालं मराठासैन्यं जेतुं शक्यम् इति । सः दूरस्थं स्थानं आरुह्य मराठासैन्यशिबिरे अनेकेभ्यः स्थलेभ्यः धूमोत्पत्तिं दृष्टवान् । ज्ञातवान् च यत् मराठासैनिकाः विभिन्नजातीयाः सन्ति, ते विभिन्न पाकशालासु पाकं कुर्वन्ति । हिन्दवः जात्युपजातिभेदान् कारणतः सहभोजनं निषिद्धं मन्यन्ते । तदा लोदिः अवदत् 'ये मनसा विभक्ताः तेषां पराजयः निश्चितः'। ततः, लोदिना यथा चिन्तितं तथैव प्रवृत्तं । ऐक्याभावात् मराठसेना पराजयं प्राप्नोत् । पानिपतयुद्धे तस्य जयः मुस्लिमशासनस्य प्रसारस्य कारणम् अभवत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Ibrahim Lodi came from Afghanistan to conquer India, but his army was very small. Lodi was worried about how he could defeat the vast Maratha army with such a small force. He climbed to a distant place and saw smoke rising from various places in the Maratha army camp. He realized that the Maratha soldiers belonged to different castes and were cooking in separate kitchens. Hindus, due to caste and sub-caste differences, considered it inappropriate to eat together. Lodi then said, ‘Those who are divided in mind are certain to be defeated’. As Lodi had anticipated, this came true. Due to the lack of unity, the Maratha army was defeated. His victory in the Battle of Panipat led to the expansion of Muslim rule.

    Show more Show less
    4 mins
  • प्रवचने शक्तिः
    Apr 22 2025

    काशीनगरे निवसन् कश्चन संन्यासी प्रतिदिनं प्रवचनं करोति स्म । तस्य प्रवचनं श्रोतुं सहस्राधिकाः जनाः आगच्छन्ति स्म । केचन पण्डिताः तस्य प्रवचनं श्रोतुं एकदा आगतवन्तः । ते अवदन् यत् तस्य भाषायां असाधुशब्दाः बहवः सन्ति इति । तथापि, एतत् बहवः जनाः श्रद्धया शृण्वन्ति । प्रवचनस्य शक्तिः का इति पृष्टे संन्यासी अवदत् - 'मम भाषा उत्कृष्टा नास्ति इति सत्यम् । तथापि मम अनुभवः एव मम प्रवचनस्य मुख्या शक्तिः । अहं सरलानि तत्त्वानि एव निरूपयामि' । पण्डिताः तस्य वचनं श्रुत्वा समाहिताः अभवन् । सः संन्यासी अग्रे 'कबीरः' इति विख्यातः अभवत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In the city of Kashi, there lived a monk who gave daily preachings. Thousands of people came to listen to his discourses. Once, some scholars came to listen to his preaching. They pointed out that his language contained many improper words. However, many people listened to him with devotion. When asked about the power of his preachings, the monk said, ‘It is true that my language is not excellent. However, my experience is the main strength of my preachings. I explain simple truths’. The scholars, hearing his words, were satisfied. This monk later became famous as 'Kabir’.

    Show more Show less
    3 mins
  • मोहजालम्
    Apr 21 2025

    मोहजाले पतितः प्राणी अविवेकपूर्णं निर्णयं करोति । मोहः जीवनस्य प्रगतिकर्तव्यायोः मार्गम् अवरुणद्धि । तादृशी स्थितिः एव अस्यां कथायां कस्यचित् वणिजः माधवस्य । यद्यपि सः श्रमशीलः निर्वञ्चनः परोपकारी च आसीत् मोहजालकारणेन स्वर्गप्राप्तिम् अपि बहुधा निराकरोति । सः विविधानि जन्मानि प्राप्य अपि विवेकस्तु न प्राप्तवान् । किमर्थम् ? कथम् ? इति इमां स्वारस्यकारीं कथां श्रुत्वा जानन्तु ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    A person trapped in the web of delusion makes irrational decisions. Delusion obstructs the path of life's progress and duty. Such is the situation in this story about a merchant named Madhava. Although he was hardworking, honest and benevolent, due to the web of delusion, he often rejected even the attainment of heaven. Despite experiencing various births, he never attained wisdom. Why? How? Listen to this interesting story to find out.

    Show more Show less
    4 mins
  • चिरञ्जीविनः
    Apr 20 2025

    अरण्यवासं कुर्वन्तं धर्मराजं चिरञ्जीवी इति विश्रुतः मार्कण्डेयमहर्षिः धर्मं बोधयन् आसीत् । 'भवादृशः अन्यः चिरञ्जीवी अस्ति वा?’ इति पृष्टे महर्षिः इन्द्रद्युम्ननामकस्य राज्ञः वृत्तान्तं कथयति । सः दानशीलः धर्मपुरुषः राजर्षिः च आसीत् । तेन सहस्रं यज्ञाः कृताः । दानरूपेण प्रदत्तां गवां खुरन्यासैः भूमिः सरोवररूपेण परिणता जाता । बहूनां प्राणिनाम् आश्रयदाता अभवत् । 'राजा इन्द्रद्युम्नः मत्तः श्रेष्ठः । अस्माकं कीर्तिः भूलोके यावत् स्मर्यते तावत् वयं स्वर्गवासम् अनुभोक्तुं शक्नुमः' इति मार्कण्डेयमहर्षिः धर्मराजम् उद्बोधितवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    During the exile in the forest, the immortal sage Markandeya was imparting the teachings of dharma to Dharmaraja. When asked, ‘Is there another immortal like you?’, the sage narrated the story of a king named Indradyumna. He was a charitable, righteous person and a royal sage. He performed a thousand yajnas. The land where cows were donated became a lake due to their hoof marks, providing refuge to many living beings. Markandeya Muni enlightened Dharmaraja, saying, ‘King Indradyumna is greater than me. As long as our fame is remembered in this world, we can experience the pleasures of heaven’.

    Show more Show less
    5 mins
  • अङ्कुरः एव सारदर्शी
    Apr 19 2025

    कदाचित् कक्षायाम् अध्यापकः छात्रान् बोधयति यत् कापि सङ्ख्या तयैव सङ्ख्यया भाज्यते चेत् भागलब्धम् एकम् एव भवति । तदा एकः बालकः सन्देहं प्रकटयति यत् शून्यमपि काचन सङ्ख्या । 'शून्यं शून्येन गुणितं चेदपि सङ्कलनं व्यवकलनं च कृतं चेदपि उत्तरं शून्यमेव भवति न तु एकम् । शून्यसङ्ख्यायाः वैचित्र्यम् इदम् इति भाति' इति अवदत् । एतत् श्रुत्वा यद्यपि अन्ये छात्राः परिहसन्ति । किन्तु अध्यापकः 'एषः सामान्यः बालकः न' इति निर्विण्णचेतस्कः अचिन्तयत् । सः एव महागणितज्ञः श्रीनिवासरामानुजमहाशयः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once in a classroom, the teacher was explaining to the students that when a number is divided by itself, the result is always one. At that time, a boy expressed a doubt about zero, saying, ‘When zero is multiplied, added, or subtracted by zero, the result is always zero, not one. It seems that the number zero has a peculiarity’. Upon hearing this, other students laughed. However, the teacher thought to himself, ‘This boy is not ordinary’. That boy later became the great mathematician Srinivasa Ramanujan.

    Show more Show less
    3 mins
  • रत्नात् अपि मूल्यवत्
    Apr 18 2025

    कदाचित् प्रतिदिनं पर्वतस्थं मन्दिरं प्रति गच्छान्त्या महिलया कश्चन मणिः प्राप्तः । आकर्षकम् उत्कृष्टं च तं मणिं स्वसमीपे स्थापितवती । अग्रे केनचित् बुभुक्षितेन पान्थेन भोजनम् अयाचत । भोजनस्वीकारेसमये तेन मणिः दृष्टः, मणिं याचितवान् । प्रतिवचनं किमपि उनुक्त्वा सा मणिः अयच्छत् । एतम् अमूल्यं मणिं सा महिला तृणाय अमन्यत । तस्याः त्यागशीलता नितरां श्रेष्ठा इति चिन्तयन् सः महिलायाः समीपं गत्वा 'तादृशाः गुणाः मयि अपि भवन्तु' इति आशीर्वादं अयाचत ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
    Once, a woman who visited a temple on the hill every day found a precious and attractive gem. She kept the gem with her. Later, a hungry traveler asked her for food. While accepting the food, he saw the gem and requested it from her. Without saying anything in response, she gave him the gem. She considered the priceless gem as a mere straw. The traveler, deeply moved by her selflessness, went back to her and asked for a blessing, saying, ‘May I also possess such qualities’.

    Show more Show less
    3 mins
  • कटुवचनं न युक्तम्
    Apr 17 2025

    कस्यचित् मठस्य व्यवस्थापकः कञ्चित् युवकं चन्दनस्य उद्घर्षणं क्रियताम् इति आदिशत् । प्रतिवचनं किमपि अनुक्त्वा सः उद्घर्षणं कुर्वन् रामनामजपम् अकरोत् । किञ्चित् कालानन्तरम् अज्ञाततया अग्निसूक्तपठनम् आरब्धम् । तावता चन्दनलेपः सिद्धः आसीत् । वेदज्ञाः तद् लिप्तवन्तः, किन्तु तेषां देहे तापः अभवत् । व्यवस्थापकः युवकं क्षमां प्रार्थितवान्, युवकः वरुणसूक्तम् अपठत् । ततः वेदज्ञाः शीतलताम् अनुभूतवन्तः । एषः युवकः 'राघवेन्द्राचार्यः' इति ख्यातः अभवत्।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    The manager of a certain monastery instructed a young man to grind sandalwood. Without saying anything in response, he began the grinding while chanting the name of Lord Rama. After a while, he unknowingly started reciting the Agni Suktam. By the time the sandalwood paste was ready, the scholars who applied it felt heat on their bodies. The manager asked the young man for forgiveness and the young man recited the Varuna Suktam. Then, the scholars experienced a cooling effect. This young man became famous as 'Raghavendra Swami'.

    Show more Show less
    3 mins
  • तल्लीनता
    Apr 16 2025

    कस्मिंश्चित् ग्रामे एकः विद्यालयः आसीत्, यत्र गणितविषयस्य अध्यापकः बहुकष्टं सूत्रं छात्रेभ्यः अयच्छत् । विद्यालयात् बहिः मङ्गलवाद्यध्वनिं श्रुत्वा अध्यापकः कञ्चित् छात्रं घटनां ज्ञातुम् प्रेषयति । छात्रः प्रत्यागत्य कथितवान् यत् महाराजः ग्रामं प्रति आगतः इति। अन्ये छात्राः महाराजं द्रष्टुम् इच्छन्तः अध्यापकात् अनुमतिं प्राप्तवन्तः । सर्वे छात्राः महाराजं द्र्ष्टुं गतवन्तः । कक्ष्यायां केवलं एकः छात्रः गणितसमस्यायाः परिहारकार्यं कुर्वन् आसीत् । अध्यापकः तस्य निकटे गत्वा कारणं पृष्टवान्, तदा छात्रः 'गणितसूत्रसमस्यापरिहारे मग्नः अस्मि' इति प्रत्युत्तरं अयच्छत् । तस्य वचनं श्रुत्वा अध्यापकः महत् आश्चर्यं प्राप्नोत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In a certain village, there was a school where the mathematics teacher gave a difficult problem to the students. Upon hearing the sound of drums outside the school, the teacher sent a student to find out what was happening. The student returned and informed that the king had arrived in the village. The other students, eager to see the king, sought permission from the teacher and went to see him. Only one student remained in the classroom, working on the math problem. The teacher approached him and asked for the reason. The student replied, ‘I am engrossed in solving the math problem’. Hearing this, the teacher was greatly astonished.

    Show more Show less
    3 mins
adbl_web_global_use_to_activate_webcro768_stickypopup